(मन्दाकिनीवर्णनम्) नानाविधैस्तीररुहैर्वृतां पुष् | English Quotes

"(मन्दाकिनीवर्णनम्) नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै:। राजन्तीं राजराजस्य नलिनीमिव सर्वत:।। मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्। तीर्थानि रमणीयानि रतिं संजनयन्ति मे।। जटाजिनधरा: काले वल्कलोत्तरवासस:। ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये।। मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत:। पादपै: पुष्पपत्राणि सृजद्भिरभितो नदीम्।। ©Abhishek Choudhary Sanskrit"

 (मन्दाकिनीवर्णनम्) 

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै:।
राजन्तीं राजराजस्य नलिनीमिव सर्वत:।।


मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्।
तीर्थानि रमणीयानि रतिं संजनयन्ति मे।।


जटाजिनधरा: काले वल्कलोत्तरवासस:।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये।।


मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत:।
पादपै: पुष्पपत्राणि सृजद्भिरभितो नदीम्।।

©Abhishek Choudhary Sanskrit

(मन्दाकिनीवर्णनम्) नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै:। राजन्तीं राजराजस्य नलिनीमिव सर्वत:।। मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्। तीर्थानि रमणीयानि रतिं संजनयन्ति मे।। जटाजिनधरा: काले वल्कलोत्तरवासस:। ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये।। मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत:। पादपै: पुष्पपत्राणि सृजद्भिरभितो नदीम्।। ©Abhishek Choudhary Sanskrit

#library

People who shared love close

More like this

Trending Topic